संस्कृतशिक्षिकाया: रूपेण मम जीवनं अत्यन्तं सौभाग्यपूर्णम् अस्ति | विद्यालये प्रतिदिनं छात्रै: सह नूतनानुभवानां प्रेरणानां च लाभ: भवति |
यदा छात्रा: भक्त्या श्लोकान् उच्चारयन्ति, हर्षेण प्रश्नान् कुर्वन्ति, तदा मम मन: आनन्देन परीप्लुतं भवति |
संस्कृतभाषा केवल: पाठ्यविषय: नास्ति, सा तु संस्कारदीपिका अस्ति | ‘एषा दीप्ति: छात्राणां जीवनपन्थानं प्रकाशयतुं सदा’ एषा मम प्रार्थना भवति |
विद्यालय: मम कर्मक्षेत्रम्,
छात्रा: च मम प्रेरणाया: मूलम् |
अयं अनुभव: मम जीवनस्य
अनमोल: निधि: इव अस्ति ||
– मंञ्जिरी होता
(सहाय्यक संस्कृत शिक्षिका)